श्री शिव पञ्चरत्न स्तुती
श्री शिव पञ्चरत्न स्तुती शिव महापुराणे ॥ श्रीकृष्ण उवाच मत्तसिन्धुरमस्तकोपरि नृत्यमानपदाम्बुजम् । भक्तचिन्तितसिद्धिदानविचक्षणं कमलेक्षणम् । भुक्तिमुक्तिफलप्रदं भवपद्मजाऽच्युतपूजितम् । कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ १॥ वित्तदप्रियमर्चितं कृतकृच्छ्रतीव्रतपश्चरैः । मुक्तिकामिभिराश्रितैर्मुनिभिर्दृढामलभक्तिभिः । मुक्तिदं निजपादपङ्कजसक्तमानसयोगिनाम् । कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ २॥ कृत्तदक्षमखाधिपं वरवीरभद्रगणेन वै । यक्षराक्षसमर्त्यकिन्नरदेवपन्नगवन्दितम् । रक्तभुग्गणनाथहृद्भ्रमराञ्चिताङ्घ्रिसरोरुहम् । कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ३॥ नक्तनाथकलाधरं नगजापयोधरनीरजा- लिप्तचन्दनपङ्ककुङ्कुमपङ्किलामलविग्रहम् । शक्तिमन्तमशेषसृष्टिविधायकं सकलप्रभुम् …